Sixteen Names of Ganesha (Shodasha Nama Stotram)

stotra-sloka
ganesha
Chanting, Invocation, Daily Prayer
hinduism

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः | लम्बोदरश्च विकटो विघ्नराजो गणाधिपः || धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः | वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ||