Ganesha Pancharatnam
मुदा करात्तमोदकं सदा विमुक्तिसाधकम् । कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकम् । नताशुभाशुनाशकं नमामि तं विनायकम् ॥ १ ॥ नतेतरातिभीकरं नवोदितार्कभास्वरम् । नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् । सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरम् । महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥ २ ॥ समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरम् । दरेतरोदरं वरं वरेभवक्त्रमक्षरम् । कृपाकरं क्षमाकरं मुदाकरं यशस्करम् । मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥ ३ ॥ अकिंचनार्तिमार्जनं चिरंतनोक्तिभाजनम् । पुरारिपूर्वनन्दनं सुरारिगर्वखर्वनम् । प्रपञ्चनाशभीषणं धनंजयादिभूषणम् । कपोलदानवारणं भजे पुराणवारणम् ॥ ४ ॥ नितांतकांतदंतकांतिं अंतकांतकात्मजम् । अचिंत्यरूपमंतहीनमंतरायकृन्तनम् । हृदंतरे निरंतरं वसंतमेव योगिनाम् । तमेकदंतमेव तं विचिंतयामि संततम् ॥ ५ ॥ (Phalaśruti - Benefit Verse) महागणेशपञ्चरत्नमादरेण योऽन्वहं । प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् । स रोगदोषमुक्तिको सुपुत्रवान्सुजीवितः । भवेत्पुरारिसुप्रसन्नवान्विनायकः शतम् ॥ ६ ॥
Prayer Details
Category
Stotra/Sloka
Deity
Lord Ganesha
Religion
Hinduism
Prayer Type
Devotional Hymn, Praise, Obstacle Removal
Additional Information
Language
Sanskrit
Content Type
Structured